|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.187. अध्यायः 187
Mahabharata - Adi Parva - Chapter Topics
सूर्यकन्यायाः तपत्या उपाख्यानम्--स्वभक्ताय संवरणाय स्वकन्यां दातुं सवितुर्निश्चयः॥ 1 ॥
मृगयार्थं गतस्य संवरणस्य गिरौ तपतीदर्शनेन कामोत्पत्तिः॥ 2 ॥
राजनि तया सह भाषितुं प्रवृत्ते तप्त्या अन्तर्धानम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
अर्जुन उवाच। 1-187-0x(1072)(8385)
तापत्य इति यद्वाक्यमुक्तवानसि मामिह।
तदहं ज्ञातुमिच्छामि तापत्यार्थं विनिश्चितम्॥ 1-187-1(8386)
तपती नाम का चैषा तापत्या यत्कृते वयम्।
कौन्तेया हि वयं साधो तत्त्वमिच्छामि वेदितुम्॥ 1-187-2(8387)
वैशम्पायन उवाच। 1-187-3x(1073)
एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनञ्जयम्।
विश्रुतं त्रिषु लोकेषु श्रावयामास वै कथाम्॥ 1-187-3(8388)
हन्त ते कथयिष्यामि कथामेतां मनोरमाम्।
यथावदखिलां पार्थ सर्वबुद्धिमतां वर॥ 1-187-4(8389)
उक्तवानस्मि येन त्वां तापत्य इति यद्वचः।
तत्तेऽहं कथयिष्यामि शृणुष्वैकमना भव॥ 1-187-5(8390)
य एष दिवि धिष्ण्येन नाकं व्याप्नोति तेजसा।
एतस्य तपती नाम बभूव सदृशी सुता॥ 1-187-6(8391)
विवस्वतो वै देवस्य सावित्र्यवरजा विभो।
विश्रुता त्रिषु लोकेषु तपती तपसा युता॥ 1-187-7(8392)
न देवी नासुरी चैव न यक्षी न च राक्षसी।
नाप्सरा न च गन्धर्वी तथा रूपेण काचन॥ 1-187-8(8393)
सुविभक्तानवद्याङ्गी स्वसितायतलोचना।
स्वाचारा चैव साध्वी च सुवेषा चैव भामिनी॥ 1-187-9(8394)
त तस्याः सदृशं कंचित्त्रिषु लोकेषु भारत।
भर्तारं सविता मेने रूपशीलगुणश्रुतैः॥ 1-187-10(8395)
संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम्।
`द्व्यष्टवर्षां तु तां श्यामां सविता रूपशालिनीम्।'
नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन्॥ 1-187-11(8396)
अथर्क्षपुत्रः क्रान्तेय कुरूणामृषभो बली।
सूर्यमाराधयामास नृपः संवरणस्तदा॥ 1-187-12(8397)
अर्ध्यमाल्योपहाराद्यैर्गन्धैश्च नियतः शुचिः।
नियमैरुपवासैश्च तपोभिर्विविधैरपि॥ 1-187-13(8398)
सुश्रूषुरनहंवादी शुचिः पौरवनन्दन।
अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान्॥ 1-187-14(8399)
ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि।
तपत्याः सदृशं मेने सूर्यः संवरणं पतिम्॥ 1-187-15(8400)
दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम्।
नृपोत्तमाय कौरव्य विश्रुताभिजनाय च॥ 1-187-16(8401)
यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा।
तथा भुवि महिपालो दीप्त्या संवरणोऽभवत्॥ 1-187-17(8402)
यथाऽर्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः।
तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः॥ 1-187-18(8403)
स सोममति कान्तत्वादादित्यमति तेजसा।
बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि॥ 1-187-19(8404)
एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव।
तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम्॥ 1-187-20(8405)
स कदाचिदथो राजा श्रीमानमितविक्रमः।
चचार मृगयां पार्थ पर्वतोपवने किल॥ 1-187-21(8406)
चरतो मृगयां तस्य क्षुत्पिपासासमन्वितः।
ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः॥ 1-187-22(8407)
स मृताश्वश्चरन्पार्थ पद्भ्यामेव गिरौ नृपः।
ददर्शासदृशीं लोके कन्यामायतलोचनाम्॥ 1-187-23(8408)
स एव एकामासाद्य कन्यां परबलार्दनः।
तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः॥ 1-187-24(8409)
स हि तां तर्कयामास रूपतो नृपतिः श्रियम्।
पुनः संतर्कयामास रवेर्भ्रष्टामिव प्रभाम्॥ 1-187-25(8410)
वपुषा वर्चसा चैव शिखामिव विभावसोः।
प्रसन्नत्वेन कान्त्या च चन्द्ररेखामिवामलाम्॥ 1-187-26(8411)
गिरिपृष्ठे तु सा यस्मिन्स्थिता स्वसितलोचना।
विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी॥ 1-187-27(8412)
तस्या रूपेण स गिरिर्वेषेण च विशेषतः।
ससवृक्षक्षुपलतो हिरण्मय इवाभवत्॥ 1-187-28(8413)
अवमेने च तां दृष्ट्वा सर्वलोकेषु योषितः।
अवाप्तं चात्मनो मेने स राजा चक्षुषः फलं॥ 1-187-29(8414)
जन्मप्रभृति यत्किचिंद्दृष्टवान्स महीपतिः।
रूपं न सदृशं तस्यास्तर्कयामास किंचन॥ 1-187-30(8415)
तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा।
न चचाल ततो देशाद्बुबुधे न च किंचन॥ 1-187-31(8416)
अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम्।
लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम्॥ 1-187-32(8417)
एवं संतर्कयामास रूपद्रविणसंपदा।
कन्यामसदृशीं लोके नृपः संवरणस्तदा॥ 1-187-33(8418)
तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः।
जगाम मनसा चिन्तां कामबाणेन पीडितः॥ 1-187-34(8419)
दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना।
अप्रगल्भां प्रगल्भस्तां तदोवाच मनोहराम्॥ 1-187-35(8420)
काऽसि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि।
कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते॥ 1-187-36(8421)
त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता।
विभूषणमिवैतेषां भूषणानामभीप्सितम्॥ 1-187-37(8422)
न देवीं नासुरीं चैव न यक्षीं न च राक्षसीम्।
न च भोगवतीं मन्ये न गन्धवीं न मानुषीम्॥ 1-187-38(8423)
या हि दृष्टा मया काश्चिच्छ्रुता वाऽपि वराङ्गनाः।
न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि॥ 1-187-39(8424)
दृष्ट्वैव चारुवदने चन्द्रात्कान्ततरं तव।
वदनं पद्मपत्राक्षं मां मथ्नातीव मन्मथः॥ 1-187-40(8425)
एवं तां स महीपालो बभाषे न तु सा तदा।
कामार्तं निर्जनेऽरण्ये प्रत्यबाषथ किंचन॥ 1-187-41(8426)
ततो लालप्यमानस्य पार्थिवस्यायतेक्षणा।
सौदामिनीव चाभ्रेषु तत्रैवान्तरधीयत॥ 1-187-42(8427)
तामन्वेष्टुं स नृपतिः परिचक्राम सर्वतः।
वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा॥ 1-187-43(8428)
अपश्यमानः स तु तां बहु तत्र विलप्य च।
निश्चेष्टः पार्थिवश्रेष्ठो मुहूर्तं स व्यतिष्ठत॥ ॥ 1-187-44(8429)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि सप्ताशीत्यधिकशततमोऽध्यायः॥ 187 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-187-1 यत् यस्मात् तत् तस्मात्। तापत्यार्थं तापत्यशब्दार्थम्॥ सप्ताशीत्यधिकशततमोऽध्यायः॥ 187 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|